शुक्रवार, 17 अप्रैल 2009

Gitikaavya

1. "गीतिकाव्यं किम् अस्ति"?
संस्कृतसाहित्यस्य परमं रमणीयं सरसं मधुरं च अङ्गं गीतिकाव्यम् अस्ति। यद्यपि काव्यशास्त्रग्रन्थेषु गीतिकाव्यस्य पृथक्-काव्याङ्गस्य रूपे विवेचनं न मिलति तथापि इदं गीतिकाव्यं खण्डकाव्यस्य अन्तर्गते वयं स्थापयितुं शक्नुमः, यतोहि अस्मिन् मानवजीवनस्य कस्याश्चित् विशिष्टघटनाया: चित्रणं कुशलतया क्रियते । गीतिकाव्ये मानवजीवनस्य काञ्चित् एकां विशेषघटनां तन्मयतया रागात्मकतया सह ध्वन्यात्मकशैल्यां छन्दोबद्धः क्रियते। गीतिशब्दस्य आँग्लपर्यायः ''LYRIC" अस्ति। ग्रीक भाषायां "लायर" एकवाद्य विशेस्य नाम अस्ति। यस्मिन एकेन जनेन गीतं गीयते । लायर अस्मात शब्दात LYRIC शब्दः उत्पन्नः अभवत । अतः सगीतेन सह अस्य नित्य सबंधः अस्ति। अत एव गीतिकाव्येषु गेयता अनिवार्यता एव वर्तते।

2." गीतिकाव्यस्य प्रमुखाः तत्त्वाः "
गीतिकाव्यस्य प्रमुखाः तत्त्वाः सन्ति----------------
१। ध्वन्यात्मकता,
२।गीतात्मक्ता ,
३। रागात्मक्ता ,
४।तन्मयता ,
५। भावमयता ,
६। रसात्मक्ता ,
७। व्यञ्जनात्मक्ता ,
८।अन्तःसुन्दरता ।

3। "गीतिकाव्यस्य प्रमुखाः भेदाः
इमानि गीति काव्यानि कानिचित् तु मुक्तकशैल्यां लिखिताः यथा भर्तृहरे: शतकत्रयं, अमरूकस्य अमरूकशतकमादयः। कानिचित् च प्रबन्धात्मकशैल्यां लिखिताः यथा मेघदूतं ,गीतगोविन्दमादय:। कानिचित् तु निबन्धात्मकशैल्यां लिखिताः यथा ऋतुसंहारम्।

१. मुक्तकगीतिकाव्यमिस्य प्रत्येकं श्लोकं अर्थावबोधस्य दृष्टया स्वस्मिन् पूर्णं भवति। मुक्तककाव्ये काचित् विशिष्टा कथा न भवति। प्रत्येकं पद्यं स्वस्मिन् पूर्णं सरसं मधुरं च भवति । रसस्य अभिव्यक्ति अपि भवति।

२. प्रबन्धात्मके गीतिकाव्ये आरम्भात् अन्तपर्यन्तं एकमेव कथासूत्रं चलति। अत एव अस्मिन् सन्दर्भादिभ्य: पूर्वापर: सम्बंध: अर्थावबोधाय अपेक्षितं वर्तते।

३. कालिदासस्य "ऋतुसंहारम्" तु गीतिकाव्यस्य आभ्यां द्विविधभेदाभ्यां भिन्नमस्ति यतोहि न तु अस्मिन् एकं कथासूत्रमस्ति न च अस्य प्रत्येके सर्गे एकस्या: ऋतुन: वर्णनमस्ति अर्थात् अत्र प्रत्येकस्य सर्गस्य पद्यसमूह् तु एकस्य निबन्धरूपे प्रस्तुतं करोति, अत: इदं निबन्धात्मक-गीतिकाव्यमस्ति।


4।"प्रमुखानि गीतिकाव्यानि"

१।मेघदूतम् :-- संस्कृतसाहित्यस्य गीतिकाव्येषु आदिग्रन्थ: मेघदूतमस्ति। अस्य लेखक: कालिदास: अस्ति। कालिदासस्य समय ४ ई० मन्यते। अस्मिन् गीतिकाव्ये मध्ये धनपति-कुबेरस्य शापेन निर्वासितस्य एकस्य विरहयुक्तस्य यक्षस्य मनोव्यथाया: मार्मिकं चित्रणमस्ति। मेघदूते प्रकृत्या: अन्तश्च बाह्यश्च स्वरूपस्य भव्यचित्रणमस्ति। अस्य ग्रन्थस्य द्वौ भेदौ स्त: पूर्वमेघ-उत्तरमेघ ।पूर्वमेघे ६६ श्लोकानि सन्ति। उत्तरमेघे ५५ श्लोकानि सन्ति।

२।ऋतुसंहारम्:-- कालिदासस्य रचना ऋतुसंहारं निबन्धात्मक-गीतिकाव्यमस्ति। अस्य प्रत्येके सर्गे प्रत्येकस्य ऋतुन: वर्णनमस्ति।अत एव अस्मिन् ग्रन्थे षड्-ऋतुवर्णनमस्ति।

३।शतकत्रयम्:-- भर्तृहरिणा शतकत्रयस्य रचना कृता। भर्तृहरे: समय ७ ई० मन्यते। शतकत्रये मध्ये त्रीणि गीतिकाव्यानि सन्ति
१-नीतिशतकम्,
२-श्रङ्गारशतकम्,
३-वैराग्यशतकम्।
नीतिशतके तेन मानवजीवनस्य आचार-व्यवहारस्य सद्गुणान् वर्णनं क्रियते । श्रङ्गारशतके श्रङ्गारस्य चित्रणं सम्यकतया क्रियते। वैराग्यशतके स: सन्तोषं परमसुखं वैराग्यस्य च अस्य साधनं मन्यते । प्रत्येके शतके १०० श्लोकानि सन्ति।

४।अमरूकशतकम्:-- अस्य गीतिकाव्यस्य लेखक: अमरूककवि: अस्ति। अस्य समय ९ ई० मन्यते । अमरूकस्य कविता मनोहारिणी अस्ति। रसकवे: अमरूकस्य कविता: मनोरमं श्रृङ्गारपूर्णमस्ति। अस्मिन् १०० श्लोकानि सन्ति।

५। भल्लटशतकम्:-- अस्य लेखक: भल्लट: अस्ति। अस्य समय ९ ई० मन्यते। अयं संस्कृतस्य गीतिसाहित्यस्य अत्यन्त: प्रसिद्ध: कवि: अस्ति। एतस्य पद्यानां उध्दरणं उत्तमकाव्यस्य दृष्टान्तरूपेण अलंकारग्रन्थेषु दत्तवन्त:।ग्रन्थेऽस्मिन् नीति-शिक्षा-श्रृङ्गारस्य वर्णनमस्ति।

६।गाथासप्तशती:-- अस्मिन् दरबारी-कविताया: चित्रणमस्ति। गाथासप्तशती प्राकृतभाषाया: गीतिसाहित्यस्य अनमोल: निधि: अस्ति। अस्य भाषा प्राकृतं छन्द च गाथा अस्ति। अस्मिन् गीतिकाव्ये ७०० गाथा: सन्ति। अस्य लेखक: हाल: अथवा शालिवाहन: अस्ति। अस्मिन् काव्ये सामान्य-लोकजीवनस्य एव चित्रणमस्ति। अत एव अयं प्रगतिवादी-कविताया: प्रथमम् उदाहरणमस्ति। अस्य समय १२ई० मन्यते।

७।आर्यासप्तशती:-- अस्य लेखक: गोवर्धनाचार्य: अस्ति। बंगालस्य अन्तिमनरेशस्य लक्ष्मणसेनस्य सभाया: एष: कवि: अस्ति। अस्य समय १२ई० अस्ति। अस्मिन् गोवर्धनाचार्येण आर्याछन्दस्य प्रयोगं क्रियते।श्रृङ्गारस्य सर्वाणाम् अवस्थानां चित्रणं रोचकतया शैल्या बभूव।

८।गीतगोविन्दम्:-- अस्य लेखक: जयदेवकवि: अस्ति। स: बंगालनरेशस्य लक्ष्मणसेनस्य सभाया: कवि: अस्ति। अस्य समय १२ई० अस्ति। अयम् अमरकृति: भक्तिरसेन पूरितमस्ति। अस्मिन् काव्ये १२ सर्गा: सन्ति।अस्मिन् राधा-कृष्णयो: भक्तिभावस्य वर्णनमस्ति।गीतगोविन्दं तु भगवती-सरस्वत्या: सौन्दर्यस्य माधुर्यस्य च पराकाष्ठा एव वर्तते। शब्दमाधुर्याय एकम् उदाहरणम् अस्ति--
ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-समीरे ।
मधुकर-निकर-करम्बित-कोकिल-कूजित-कुञ्ज-कुटीरे ॥
विहरति हरिरिह सरस-वसन्ते
नृत्यति युवति-जनेन समं सखि विरहि-जनस्य दुरन्ते ॥
राधाया: रसमय: वर्णनमस्ति यथा----
चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वन-माली ।
केलि-चलन्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली ॥
हरिरिह मुग्ध-वधू-निकरे विलासिनि विलासति केली-परे ॥
पीन-पयोधर-भार-भर्ण हरिं परिरभ्य सरगम् ।
गोप-वधूरनुगायति काचिद् उदनचित-पञ्चम-रागम् ॥
गीतगोविन्दस्य प्रभाव: सम्पूर्णभारतवर्षे व्याप्तमस्ति।भारतदेशस्य सांस्कृतिकनृत्येषु उपरि: अपि अस्य अधिकं प्रभावम् अस्ति ।
९।जैन-परम्परायां गीतिकाव्यस्य विवेचनम्:-- कालिदासस्य मेघदूतस्य समस्यापूर्त्ये: अनेकानां जैनकाव्यानां रचना अकुर्वन्, येषु प्रमुखा: सन्ति---
(१) पार्श्वाभ्युदयम्-- अस्य लेखक: जिनसेन: द्वितीय :अस्ति।अस्य समय: ८-९ ई० अस्ति। अस्मिन् ३६४ श्लोकानि सन्ति। अस्मिन् ४ सर्गा: सन्ति। समस्यापूर्ते: रूपे मेघदूतस्य सर्वाणि श्लोकानि अस्मिन् काव्ये प्रयुक्तमस्ति। अस्य अङ्गीरस: शान्त: अस्ति।

(२)नेमिदूतम्--अस्य लेखक: विक्रमकवि: अस्ति।अस्य समय: १४ ई० अस्ति। अस्मिन् मध्ये २२तीर्थकरस्य नेमीनाथस्य तस्य भार्याया: राजमत्या: च चरितस्य चित्रणमस्ति।

(३)शीलदूतम्--अस्य लेखक: बृहत्तपागच्छीय चरित्रसुन्दरगणि: अस्ति।अस्य समय: १५ई० अस्ति। अस्मिन् १२५ श्लोकानि सन्ति। अस्मिन् मेघदूतस्य अन्त्यचरणानां वर्णनमस्ति। अस्मिन् काव्ये स्थूलभद्रेण स्वपत्नीं स्वशीलकारणेन जैनधर्मे दीक्षितं क्रियते।

(४)जैनमेघदूतम्--अस्य लेखक: मेरूतुंग: अस्ति।अस्य समय: १४- १५ई० अस्ति। अस्मिन् १९६ श्लोकानि सन्ति। अस्मिन् मध्ये २२तीर्थकरस्य नेमीनाथस्य तस्य भार्याया: राजमत्या: च चरितस्य वर्णनम् अस्ति।

(५)पवनदूतम्--अस्य लेखक: वादिचन्द्र: अस्ति।अस्य समय: १६ ई० अस्ति। अस्मिन् उज्ज्यन्या: नृप: विजयनरेश: नायक: तस्य च महिषि: तारा नायिका अस्ति। अपहृत-तारायै नृप: पवनेन सन्देशं प्रेषयति।

(६)चन्द्रदूतम्--अस्य लेखक: विमलकीर्ति: अस्ति।अस्य समय: १७ ई० अस्ति। अस्मिन् १४१ श्लोकानि सन्ति। अस्मिन् चन्द्रमसं दूतरूपे नियुक्तं कृत्वा ऋषभदेवस्य वन्दनाया: निमित्तं प्रेषितवान्।

(७)मेघदूतसमस्या-लेख: --अस्य लेखक: उपाध्याय: मेघविजय: अस्ति। अस्य समय: १७ ई० अस्ति। अस्मिन् १३० श्लोकानि सन्ति।

(८)चेतोदूतम्--अस्य लेखक: अज्ञात: जैनाचार्य: अस्ति। अस्मिन् १२९ श्लोकानि सन्ति। अस्मिन् चित्तं दूतं निर्माय गुरो: पार्श्वे प्रेषयति ।

१०। जैनेत्तर-परम्परायां कालिदासस्य मेघदूतस्य समस्यापूर्त्ये: द्वे गीतिकाव्ये अपि मिलत:, तौ स्त:--
(१)सिध्ददूतम्--अस्य लेखक: अवधूतराम योगी अस्ति।अस्य समय: १५ ई० अस्ति। अस्मिन् १३८ श्लोकानि सन्ति। अस्मिन् ग्रन्थे छायापुरुषं दूतं निर्मीत्य कैलासस्थ-ब्रह्मविद्याया: पार्श्वे प्रेषयति ।
(२)हनुमद्दूतम्--एतस्य लेखक: नित्यानन्द शास्त्री अस्ति। अस्य समय: २० ई० अस्ति। अस्य निवासस्थानं राजस्थानप्रांतस्य जोधपुरनगरमस्ति ।

११।अन्यगीतिकाव्यानि--
(१) हंससंदेशम्-- अस्य लेखक: वेदांतदेशिक: अस्ति। अस्मिन् ११० श्लोकानि सन्ति। अस्मिन् ग्रन्थे हंसं दूतं निर्माणं कृत्वा कवि: प्रेषयति। हंससंदेशं तु आध्यात्मिकं रचना अस्ति। अत्र रामचन्द्र: अखण्ड-सच्चिदानन्द: भगवान् अस्ति, जानकी तु मुमुक्षुजीवमस्ति, हंसः आचार्यः अस्ति।

(२)हंसदूतम्-- अस्य लेखक: रूपगोस्वामि: अस्ति। अस्मिन् ग्रन्थे हंसं दूतं निर्माणं कृत्वा राधा कृष्णस्य पार्श्वे मथुरां प्रेषयति। अस्मिन् ग्रन्थे मथुराया: वैभवं, कृष्णस्य मित्रसमूहस्य, राधाया:विरह-व्यथाया: चित्रणमस्ति।

(३)वाङ्मंडनगुण दूतम्-- अस्य लेखक: वीरेश्वरकवि: अस्ति। अस्मिन् १०१ श्लोकानि सन्ति। अस्मिन् ग्रन्थे स्वकवितां दूतं निर्माणं कृत्वा कवि: नृपस्य भीमसेनस्य पार्श्वे प्रेषयति।

(४)चन्द्रदूतम्-- अस्य ग्रन्थस्य लेखक: एक: जन: तु न अस्ति, अपितु अनेकै: जनै: प्रथक्-प्रथक् चन्द्रदूतस्य रचना कृता:। प्रमुखा: कवय: विनयप्रभु:, विनय विजयगणि: कृष्णचन्द्र: तर्कालंकार: च सन्ति।

(५)इन्दूदूतम्-- अस्य लेखक: विनय विजयगणि: अस्ति।अस्य समय: १७ ई० अस्ति। अस्मिन् १३१ श्लोकानि सन्ति। अस्मिन् ग्रन्थे शान्तरसस्य प्रधानता वर्तते। कवि: चन्द्रमसं दूतं निर्मीत्य स्वगुरो: पार्श्वे प्रेषयति।

(६)स्तवमाला-- अस्य लेखक: रूपगोस्वामी अस्ति। अस्मिन् ग्रन्थे श्रीकृष्णस्य , राधाया:, वृन्दावनस्य, यमुनाया: च स्वरूपस्य राधाकृष्णयो: ललितक्रीडाया: रसमय: वर्णनं वर्तते।

(७)पदकल्पतरु: -- अस्य लेखक: गोविन्ददास: अस्ति।अस्य समय: १६ ई० अस्ति। अस्मिन् ग्रन्थे वैष्णव-भक्त्या पूरितं गीतानि सन्ति।

(८)सारार्थ-दर्शिनी-- अस्य लेखक: विश्वनाथः चक्रवर्ती अस्ति।अस्य समय: १६ ई० अस्ति।

(९)पदामृतसमुद्र:--अस्य लेखक: राधामोहन: ठाकुर: अस्ति।अस्य समय: १७-१८ ई० अस्ति।

5।सन्दर्भ-ग्रन्थ सूची :--
१।संस्कृतसाहित्य का इतिहास --- डॉ० ऊमाशंकर शर्मा "ऋषि"प्रकाशन-- चौखम्भा संस्कृत प्रतिष्ठान
२.संस्कृतसाहित्यका समीक्षात्मक इतिहास--- डॉ० कपिलदेव द्विवेदी
३.संस्कृतसाहित्य का इतिहास---आचार्य बलदेव उपाध्याय प्रकाशन-- शारदा निकेतन ,वाराणसी ४.मेघदूतम्--- कालिदास व्याख्याकार-- डा० बाबूराम त्रिपाठीप्रकाशन-- महालक्ष्मी प्रकाशन ,आगरा

विकास सिंह: विरचित:
स्नातकोत्तर द्वितीयं सत्रम्
जे० एन० यू० नव-देहली

1 टिप्पणी:

  1. बहुत अच्छा लिखा है प्रयास सार्थक है। परन्तु यह मात्र इतना ही न रह जाये। अपेक्षा है कि समय-समय पर तुम अपने ब्लॉग को समृद्ध करते रहोगे। मेरी शुभकामनाएँ तुम्हारे साथ हैं।

    जवाब देंहटाएं